समयसार - आत्मख्याति टीका - गाथा 69 - 70
From जैनकोष
जाव ण वेदि विसेसंतरं तु आदासवाण दोह्णं पि ।
अण्णाणी ताव दु सो कोहादिसु वट्टदे जीवो ॥६९॥
कोहादिसु वट्टंतस्स तस्स कम्मस्स संचओ होदी ।
जीवस्सेवं बंधो भणिदो खलु सव्वदरिसीहिं ॥७०॥
यावन्न वेत्ति विशेषान्तरं त्वात्मास्रवयोर्द्वयोरपि ।
अज्ञानी तावत्स क्रोधादिषु वर्तते जीव: ॥६९॥
क्रोधादिषु वर्तमानस्य तस्य कर्मण: सञ्चयो भवति ।
जीवस्यैवं बन्धो भणित: खलु सर्वदर्शिभि: ॥७०॥
यथायमात्मा तादात्म्यसिद्धसम्बन्धयोरात्मज्ञानयोरविशेषाद्भेदमपश्यन्नविशङ्कमात्मतया ज्ञाने वर्तते तत्र वर्तमानश्च ज्ञानक्रियाया: स्वभावभूतत्वेनाप्रतिषिद्धत्वाज्जनाति, तथा संयोगसिद्धसम्बन्ध-योरप्यात्मक्रोधाद्यास्रवयो: स्वयमज्ञानेन विशेषमजानन् यावद्भेदं न पश्यति तावदशङ्कमात्मतया
क्रोधादौ वर्तते तत्र वर्तमानश्च क्रोधादिक्रियाणां परभावभूतत्वात्प्रतिषिद्धत्वेऽपि स्वभावभूतत्वा-ध्यासात्कु्रध्यति रज्यते मुह्यति चेति ।
तदत्र योऽयमात्मा स्वयमज्ञानभवने ज्ञानभवनमात्रसहजोदासीनावस्थात्यागेन व्याप्रियमाण: प्रतिभाति स कर्ता यत्तु ज्ञानभवनव्याप्रियमाणत्वेभ्यो भिन्नं क्रियमाणत्वेनान्तरुत्प्लवमानं प्रतिभाति क्रोधादि तत्कर्म । एवमियमनादिरज्ञानजा कर्तृकर्मप्रवृत्ति: ।
एवमस्यात्मन: स्वयमज्ञानात्कर्तृकर्मभावेन क्रोधादिषु वर्तमानस्य तमेव क्रोधादिवृत्तिरूपं परिणामं निमित्तमात्रीकृत्य स्वयमेव परिणममानं पौद्गलिकं कर्म सञ्चयमुपयाति ।
एवं जीवपुदगलयो: परस्परावगाहलक्षणसम्बन्धात्मा बन्ध: सिध्येत् ।
स चानेकात्मकैकसन्तानत्वेन निरस्तेतरेतराश्रयदोष: कर्तृकर्मप्रवृत्तिनिमित्तस्याज्ञानस्य निमित्तम् ॥६९-७० ॥