समयसार - आत्मख्याति टीका - गाथा 72
From जैनकोष
कथं ज्ञानमात्रादेव बन्धनिरोध इति चेत्
णादूण आसवाणं असुचित्तं च विवरीयभावं च ।
दुक्खस्स कारणं ति य तदो णियत्तिं कुणदि जीवो ॥७२॥
ज्ञात्वा आस्रवाणामशुचित्वं च विपरीतभावं च ।
दु:खस्य कारणानीति च ततो निवृत्तिं करोति जीव: ॥७२॥
जले जम्बालवत्कलुषत्वेनोपलभ्यमानत्वादशुचय: खल्वास्रवा:, भगवानात्मा तु नित्यमेवाति-निर्मलचिन्मात्रत्वेनोपलम्भकत्वादत्यन्तं शुचिरेव ।
जडस्वभावत्वे सति परचेत्यत्वादन्यस्वभावा: खल्वास्रवा:, भगवानात्मा तु नित्यमेव विज्ञानघनस्वभावत्वे सति स्वयं चेतकत्वादनन्यस्वभाव एव ।
आकुलत्वोत्पादकत्वाद्दु:खस्य कारणानि खल्वास्रवा:, भगवानात्मा तु नित्यमेवाना-कुलत्वस्वभावेनाकार्यकारणत्वाद्दु:खस्याकारणमेव ।
इत्येवं विशेषदर्शनेन यदैवायमात्मात्मास्रवयोर्भेदं जानाति तदैव क्रोधादिभ्य आस्रवेभ्यो निवर्तते, तेभ्योऽनिवर्तमानस्य पारमार्थिकतद्भेदज्ञानासिद्धे: । तत: क्रोधाद्यास्रवनिवृत्त्यविनाभाविनो ज्ञानमात्रादेवाज्ञानजस्य पौद्गलिकस्य कर्मणो बन्धनिरोध: सिध्येत् ।
किं च यदिदमामात्मास्रवयोर्भेदज्ञानं तत्किमज्ञानं किं वा ज्ञानम् ?
यद्यज्ञानं तदा तदभेदज्ञानान्न तस्य विशेष: । ज्ञानं चेत् किमास्रवेषु प्रवृत्तं किं वास्रवेभ्यो निवृत्तम्? आस्रवेषु प्रवृत्तं चेत्तदापि तदभेदज्ञानान्न तस्य विशेष: । आस्रवेभ्यो निवृत्तं चेत्तर्हि कथं न ज्ञानादेव बन्धनिरोध: । इति निरस्तोऽज्ञानांश: क्रियानय: ।
यत्त्वात्मास्रवयोर्भेदज्ञानमपि नास्रवेभ्यो निवृत्तं भवति तज्ज्ञानमेव न भवतीति ज्ञानांशो ज्ञाननयोऽपि निरस्त: ॥७२॥