समयसार - आत्मख्याति टीका - गाथा 76
From जैनकोष
कुतो द्विक्रियानुभावी मिथ्यादृष्टिरिति चेत्
जम्हा दु अत्तभावं पोग्गलभावं च दो वि कुव्वंति ।
तेण दु मिच्छादिट्ठी दोकिरियावादिणो हुंति ॥८६॥
यस्मात्त्वात्मभावं पुद्गलभावं च द्वावपि कुर्वन्ति ।
तेन तु मिथ्यादृष्टयो द्विक्रियावादिनो भवन्ति ॥८६॥
यत: किलात्मपरिणामं पुद्गलपरिणामं च कुर्वन्तमात्मानं मन्यन्ते द्विक्रियावादिनस्ततस्ते मिथ्या-दृष्टय एवेति सिद्धान्त: । मा चैकद्रव्येण द्रव्यद्वयपरिणाम: क्रियमाण: प्रतिभातु ।
यथा किल कुलाल: कलशसम्भवानुकूलमात्मव्यापारपरिणाममात्मनोऽव्यतिरिक्तमात्मनो- ऽव्यतिरिक्तया परिणतिमात्रया क्रियया क्रियमाणं कुर्वाण: प्रतिभाति, न पुन: कलशकरणाहङ्कार-निर्भरोऽपि स्वव्यापारानुरूपं मृत्तिकाया: कलशपरिणामं मृत्तिकाया: अव्यतिरिक्तं मृत्तिकाया: अव्यतिरिक्तया परिणतिमात्रया क्रियया क्रियमाणं कुर्वाण: प्रतिभाति ।
तथात्मापि पुद्गलकर्मपरिणामानुकूलमज्ञानादात्मपरिणाममात्मनोऽव्यतिरिक्तमात्मनोऽव्य-तिरिक्तया परिणतिमात्रया क्रियया क्रियमाणं कुर्वाण: प्रतिभातु, मा पुन: पुद्गलपरिणाम-करणाहङ्कारनिर्भरोऽपि स्वपरिणामानुरूपं पुद्गलस्य परिणामं पुद्गलादव्यतिरिक्तं पुद्गलाद-व्यतिरिक्तया परिणतिमात्रया क्रियया क्रियमाणं कुर्वाण: प्रतिभातु ॥८६॥