समय सत्य
From जैनकोष
राजवार्तिक/1/20/12/75/21 तत्र सचेतनेतरद्रव्यस्यासत्यप्यर्थे यद्वयवहारार्थं संज्ञाकरणं तन्नामसत्यम, इंद्र इत्यादि। यदर्थासंनिधानेऽपि रूपमात्रेणोच्यते तद्रूपसत्यम्, यथा चित्रपुरुषादिषु असत्यमपि चैतन्योपयोगादावर्थे पुरुष इत्यादि। असत्यप्यर्थे यत्कार्यार्थं स्थापितं द्यूताक्षनिक्षेपादिषु तत् स्थापनासत्यम् । आदिमदनादिमदौपशमिकादीन् भावान् प्रतीत्य यद्वचन तत्प्रतीत्यसत्यम् । यल्लोके संवृत्यानीतं वचस्तत् संवृतिसत्यं यथा पृथिव्याद्यनेककारणत्वेऽपि सति ‘पंके जातं पंकजम्’ इत्यादि। धूपचूर्णवासानुलेपनप्रघर्षादिषु पद्म-मकर-हंस-सर्वतोभद्र-क्रौंच-व्यूहादिषु वा सचेतनेतरद्रव्याणां यथा भागविधिसंनिवेशाविर्भावकं यद्वचस्तत् संयोजनासत्यम् । द्वात्रिंशज्जनपदेष्वार्यानार्यभेदेषु धर्मार्थकाममोक्षाणां प्रापकं यद्वच: तत् जनपदसत्यम् । ग्रामनगरराजगणपाखंडजातिकुलादिधर्माणामुपदेष्ट्ट यद्वच: तद् देशसत्यम् । छद्मस्थज्ञानस्य द्रव्ययाथात्म्यादर्शनेऽपि संयतस्य संयतासंयतस्य वा स्वगुणपरिपालनार्थं प्रासुकमिदमप्रासुकमित्यादि यद्वच: तत् भावसत्यम् । प्रतिनियतषट्तयद्रव्यपर्यायाणामगमगम्यानां याथात्म्याविष्करणं यद्वच: तत् समयसत्यम् । =.....जो वचन आगमगम्य प्रतिनियत छद द्रव्य व उनकी पर्यायों की यथार्थता को प्रगट करने वाला है वह समय सत्य है।
अधिक जानकारी के लिये देखें सत्य - 6।