GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 26 - समय-व्याख्या
From जैनकोष
अत्र संसारावस्थस्यात्मन: सोपाधि निरुपाधि च स्वरूपमुक्तम् । आत्मा हि निश्चयेन भावप्राणधारणाज्जीव:, व्यवहारेण द्रव्यप्राणधारणाज्जीव: । निश्चयेन चिदात्मकत्वात्, व्यवहारेण चिच्छक्तियुक्तत्वाच्चेतयिता । निश्चयेनापृथग्भूतेन, व्यवहारेण पृथग्भूतेन चैतन्यपरिणामलक्षणेनोपयोगेनोपलक्षितत्वादुपयोगविशेषित: । निश्चयेन भावकर्मणां, व्यवहारेण द्रव्यकर्मणामास्रवणबंधनसंवरणनिर्जरणमोक्षणेषु स्वयमीशत्वात् प्रभु: । निश्चयेन पौद्गलिककर्मनिमित्तात्मपरिणामानां, व्यवहारेणात्मपरिणामनिमित्तपौद्गलिककर्मणां कर्तृत्वात्कर्ता । निश्चयेन शुभाशुभकर्मनिमित्तसुखदु:खपरिणामानां, व्यवहारेण शुभाशुभकर्मसंपादितेष्टानिष्ठविषयाणां भोक्तृत्वाद्भोक्ता । निश्चयेन लोकमात्रोऽपि विशिष्टावगाहपरिणामशक्तियुक्तत्वान्नामकर्मनिर्वृत्तमणु महच्च शरीरमधितिष्ठन् व्यवहारेण देहमात्र: । व्यवहारेण कर्मभि: सहैकत्वपरिणामान्मूर्तोऽपि निश्चयेन निरूपस्वभावत्वान्न हि मूर्त: । निश्चयेन पुद्गलपरिणामानुरूपचैतन्यपरिणामात्मभि:, व्यवहारेण चैतन्यपरिणामानुरूपपुद्गलपरिणामात्मभि: कर्मभि: संयुक्तत्वात्कर्मसंयुक्त इति ॥२६॥