GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 4 - समय-व्याख्या
From जैनकोष
अथ पंचास्तिकायानां विशेषसंज्ञा सामान्यविशेषास्तित्वं कायत्वं चोक्तम् । तत्र जीवा: पुद्गला: धर्माधर्मौ आकाशमिति तेषां विशेषसंज्ञा अन्वर्था: प्रत्येया: । सामान्यविशेषास्तित्वं च तेषामुत्पादव्यध्रौव्यमय्यां सामान्यविशेषसत्तायां नियतत्वाद्ववस्थितत्वादवसेयम् । अस्तित्वे नियतानामपि न तेषामन्यमयत्वम्, यतस्ते सर्वदैवानन्यमया आत्मनिर्वृत्ता: । अनन्यमयत्वेऽपि तेषामस्तित्वनियतत्वं, नयप्रयोगात् । द्वौ हि नयौ भगवता प्रणीतौ—द्रव्यार्थिक: पर्यायार्थिकश्च । तत्र न खल्वेकनयायत्ता देशना किंतु तदुभयायत्ता । तत: पर्यायार्थादेशादस्तित्वे स्वत: कथंचिद्भिन्नऽपि व्यस्थित: द्रव्यार्थदेशात्स्वयमेव सन्त: सतोऽनन्यमया भवन्तीति । कायत्वमपि तेषामणुमहत्त्वात् । अणवोऽत्र प्रदेशा मूर्ताऽमूर्ताश्च निर्विभागांशास्तै: महान्तोऽणुमहान्त: प्रदेशप्रचयात्मका: । इति सिद्धं तेषां कायत्वम् । अणुभ्यां महान्त इति व्युत्पत्त्या द्वणुकपुद्गलस्कन्धानामपि तथाविधत्वम् । अणवश्च महान्तश्च व्यक्तिशक्तिरूपाभ्यामिति परमाणूनामेकप्रदेशात्मकत्वेऽपि तत्सिद्धि: । व्यक्त्यपेक्षया शक्त्यपेक्षया च प्रदेशप्रचयात्मकस्य हमत्त्वस्याभावात्कालाणूनामस्तित्वनियतत्वेऽप्यकायत्वमनेनैव साधितम् । अंत एव तेषामस्तिकायप्रकरणे सतामप्यनुपादानमिति ॥४॥