GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 55 - समय-व्याख्या
From जैनकोष
जीवस्य भावोदयवर्णनमेतत् । कर्मणां फलदानसमर्थतयोद᳭भूतिरुदय:, अनुद᳭भूतिरुपशम:, उद᳭भभूत्यनुद᳭भूती क्षयोपशम:, अत्यंतविश्लेष: क्षय:, द्रव्यात्मलाभहेतुक: परिणाम: । तत्रोदयेन युक्त औदयिक: उपशमेन युक्त औपशमिक:, क्षयोपशमेन युक्त: क्षायोपशमिक:, क्षयेण युक्त: क्षायिक:, परिणामेन युक्त: पाणिामिक: । त एते पञ्च जीवगुणा: । तत्रोपाधिचतुर्विधत्वनिबंधनाश्चत्वार:, स्वभावनिबंधन एक: । एते चोपाधिभेदात्स्वरूपभेदाच्च भिद्यमाना बहुष्वर्थेषु विस्तार्यंत इति ॥५५॥