GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 82 - समय-व्याख्या
From जैनकोष
अथ धर्माधर्मद्रव्यास्तिकायव्याख्यानम् ।
धर्मस्वरूपाख्यानमेतत् ।
धर्मो हि स्पर्शरसगन्धवर्णानामत्यन्ताभावादमूर्तस्वभावः । तत एव चाशब्दः ।सकललोकाकाशाभिव्याप्यावस्थितत्वाल्लोकावगाढः । अयुतसिद्धप्रदेशत्वात् स्पृष्टः । स्वभावादेवसर्वतो विस्तृतत्वात्पृथुलः । निश्चयनयेनैकप्रदेशोऽपि व्यवहारनयेनासंख्यातप्रदेश इति ॥८२॥