GP:प्रवचनसार - गाथा 110 - तत्त्व-प्रदीपिका
From जैनकोष
अथ गुणगुणिनोर्नानात्वमुपहन्ति -
न खलु द्रव्यात्पृथग्भूतो गुण इति वा पर्याय इति वा कश्चिदपि स्यात्, यथा सुवर्णात्पृथ-ग्भूतं तत्पीतत्वादिकमिति वा तत्कुण्डलत्वादिकमिति वा । अथ तस्य तु द्रव्यस्य स्वरूपवृत्ति-भूतमस्तित्वाख्यं यद्द्रव्यत्वं स खलु तद्भावाख्यो गुण एव भवन् किं हि द्रव्यात्पृथग्भूतत्वेन वर्तते ? न वर्तत एव । तर्हि द्रव्यं सत्तऽस्तु, स्वयमेव ॥११०॥