GP:प्रवचनसार - गाथा 117 - तात्पर्य-वृत्ति
From जैनकोष
अथ मनुष्यादिपर्यायाः कर्मजनिता इति विशेषेण व्यक्तीकरोति --
कम्मं कर्मरहितपरमात्मनो विलक्षणं कर्मकर्तृ । किंविशिष्टम् । णामसमक्खं निर्नामनिर्गोत्रमुक्तात्मनो विपरीतं नामेति सम्यगाख्या संज्ञा यस्यतद्भवति नामसमाख्यं नामकर्मेत्यर्थः । सभावं शुद्धबुद्धैकपरमात्मस्वभावं अह अथ अप्पणो सहावेण आत्मीयेन ज्ञानावरणादिस्वकीयस्वभावेन करणभूतेन अभिभूय तिरस्कृत्य प्रच्छाद्य तंपूर्वोक्तमात्मस्वभावम् । पश्चात्किं करोति । णरं तिरियं णेरइयं वा सुरं कुणदि नरतिर्यग्नारक-सुररूपं करोतीति । अयमत्रार्थः --
यथाग्निः कर्ता तैलस्वभावं कर्मतापन्नमभिभूय तिरस्कृत्य वर्त्याधारेण दीपशिखारूपेण परिणमयति, तथा कर्माग्निः कर्ता तैलस्थानीयं शुद्धात्मस्वभावं तिरस्कृत्य वर्तिस्थानीयशरीराधारेण दीपशिखास्थानीयनरनारकादिपर्यायरूपेण परिणमयति । ततो ज्ञायतेमनुष्यादिपर्यायाः निश्चयनयेन कर्मजनिता इति ॥११७॥