GP:प्रवचनसार - गाथा 132 - तत्त्व-प्रदीपिका
From जैनकोष
अथ मूर्तस्य पुद्गलद्रव्यस्य गुणान् गृणाति -
इन्द्रियग्राह्या: किल स्पर्शरसगन्धवर्णास्तद्विषयत्वात्, ते चेन्द्रियग्राह्यत्वव्यक्तिशक्तिवशात् गृह्यमाणा अगृह्यमाणाश्च आ-एकद्रव्यात्मकसूक्ष्मपर्यायात्परमाणो: आ-अनेकद्रव्या-त्मकस्थूलपर्यायात्पृथिवीस्कन्धाच्च सकलस्यापि पुद्गलस्याविशेषेण विशेषगुणत्वेन विद्यन्ते । ते च मूर्तत्वादेव शेषद्रव्याणामसंभवन्त:, पुद्गलमधिगमयन्ति ।
शब्दस्यापीन्द्रियग्राह्यत्वाद्गुणत्वं न खल्वाशङ्कनीयं, तस्य वैचित्र्यप्रपञ्चितवैश्वरूप-स्याप्यनेकद्रव्यात्मकपुद्गलपर्यायत्वेनाभ्युपगम्यमानत्वात् ।
गुणत्वे वा, न तावदमूर्तद्रव्यगुण: शब्द: गुणगुणिनोरविभक्तिप्रदेशत्वेनैकवेदनवेद्य-त्वादमूर्तद्रव्यस्यापि श्रवणेन्द्रियविषयत्वापत्ते: । पर्यायलक्षणेनोत्खातगुणलक्षणत्वान्मूर्त-द्रव्यगुणोऽपि न भवति । पर्यायलक्षणं हि कादाचित्कत्वं गुणलक्षणं तु नित्यत्वम् । तत: कादाचित्कत्वोत्खातनित्यत्वस्य न शब्दस्यास्ति गुणत्वम् । यत्तु तत्र नित्यत्वं तत्तदारम्भक-पुद्गलानां तद्गुणानां च स्पर्शादीनामेव, न शब्दपर्यायस्येति दृढतरं ग्राह्यम् ।
न च पुद्गलपर्यायेत्वे शब्दस्य पृथिवीस्कन्धस्येव स्पर्शनादीन्द्रियविषयत्वम्, अपां घ्राणे-न्द्रियाविषयत्वात्, ज्योतिषो घ्राणरसनेन्द्रियाविषयत्वात्, मरुतो घ्राणरसनचक्षुरिन्द्रियाविषय-त्वाच्च । न चागन्धागन्धरसागन्धरसवर्णा:, एवमप्ज्योतिर्मारुत:, सर्वपुद्गलानां स्पर्शादि- चतुष्कोपेतत्वाभ्युगमात, व्यक्तस्पर्शादिचतुष्कानां च चन्द्रकान्तारणियवानामारम्भकैरेव पुद्गलैरव्यक्तगन्धाव्यक्तगन्धरसाव्यक्तगन्धरसवर्णानामपूज्योतिरुदरमरुतामारम्भदर्शनात् ।
न च क्वचित्कस्यचित् गुणस्य व्यक्ताव्यक्तत्वं कादाचित्कपरिणामवैचित्र्यप्रत्ययं नित्य-द्रव्यस्वभावप्रतिघाताय । ततोऽस्तु शब्द: पुद्गलपर्याय एवेति ॥१३२॥