GP:प्रवचनसार - गाथा 139 - तात्पर्य-वृत्ति
From जैनकोष
अथपूर्वोक्तकालपदार्थस्य पर्यायस्वरूपं द्रव्यस्वरूपं च प्रतिपादयति --
वदिवददो तस्य पूर्वसूत्रोदित-पुद्गलपरमाणोर्व्यतिपततो मन्दगत्या गच्छतः । कं कर्मतापन्नम् । तं देसं तं पूर्वगाथोदितंकालाणुव्याप्तमाकाशप्रदेशम् । तस्सम] तेन कालाणुव्याप्तैकप्रदेशपुद्गलपरमाणुमन्दगतिगमनेन समःसमानः सदृशस्तत्समः समओ कालाणुद्रव्यस्य सूक्ष्मपर्यायभूतः समयो व्यवहारकालो भवतीतिपर्यायव्याख्यानं गतम् । तदो परो पुव्वो तस्मात्पूर्वोक्तसमयरूपकालपर्यायात्परो भाविकाले पूर्वमतीतकालेच जो अत्थो यः पूर्वापरपर्यायेष्वन्वयरूपेण दत्तपदार्थो द्रव्यं सो कालो स कालः कालपदार्थो भवतीतिद्रव्यव्याख्यानम् । समओ उप्पण्णपद्धंसी स पूर्वोक्तसमयपर्यायो यद्यपि पूर्वापरसमयसन्तानापेक्षया संख्येयासंख्येयानन्तसमयो भवति, तथापि वर्तमानसमयं प्रत्युत्पन्नप्रध्वंसी । यस्तु पूर्वोक्तद्रव्यकालः सत्रिकालस्थायित्वेन नित्य इति । एवं कालस्य पर्यायस्वरूपं द्रव्यस्वरूपं च ज्ञातव्यम् ॥
अथवानेन गाथाद्वयेन समयरूपव्यवहारकालव्याख्यानं क्रियते । निश्चयकालव्याख्यानं तु 'उप्पादो पद्धंसो' इत्यादिगाथात्रयेणाग्रे करोति । तद्यथा — समओ परमार्थकालस्य पर्यायभूतसमयः । अवप्पदेसो अपगतप्रदेशोद्वितीयादिप्रदेशरहितो निरंश इत्यर्थः । कथं निरंश इति चेत् । पदेसमेत्तस्स दवियजादस्स प्रदेशमात्रपुद्गलद्रव्यस्य संबन्धी योऽसौ परमाणुः वदिवादादो वट्टदि व्यतिपातात् मन्दगति-गमनात्सकाशात्स परमाणुस्तावद्गमनरूपेण वर्तते । कं प्रति । पदेसमागासदवियस्स विवक्षितै-काकाशप्रदेशं प्रति । इति प्रथमगाथाव्याख्यानम् । वदिवददो तं देसं स परमाणुस्तमाकाशप्रदेशं यदाव्यतिपतितोऽतिक्रान्तो भवति तस्सम समओ तेन पुद्गलपरमाणुमन्दगतिगमनेन समः समानः समयोभवतीति निरंशत्वमिति वर्तमानसमयो व्याख्यातः । इदानीं पूर्वापरसमयौ कथयति -- तदो परो पुव्वो तस्मात्पूर्वोक्तवर्तमानसमयात्परो भावी कोऽपि समयो भविष्यति पूर्वमपि कोऽपि गतः अत्थो जो एवंयः समयत्रयरूपोर्थः सो कालो सोऽतीतानागतवर्तमानरूपेण त्रिविधव्यवहारकालो भण्यते । समओ उप्पण्णपद्धंसी तेषु त्रिषु मध्ये योऽसौ वर्तमानः स उत्पन्नप्रध्वंसी अतीतानागतौ तु संख्येयासंख्ये-यानन्तसमयावित्यर्थः । एवमुक्तलक्षणे काले विद्यमानेऽपि परमात्मतत्त्वमलभमानोऽतीतानन्तकालेसंसारसागरे भ्रमितोऽयं जीवो यतस्ततः कारणात्तदेव निजपरमात्मतत्त्वं सर्वप्रकारोपादेयरूपेण श्रद्धेयं, स्वसंवेदनज्ञानरूपेण ज्ञातव्यमाहारभयमैथुनपरिग्रहसंज्ञास्वरूपप्रभृतिसमस्तरागादिविभावत्यागेन ध्येयमिति तात्पर्यम् ॥१५०॥
एवं कालव्याख्यानमुख्यत्वेन षष्ठस्थले गाथाद्वयं गतम् ।