GP:प्रवचनसार - गाथा 142 - तत्त्व-प्रदीपिका
From जैनकोष
अथ कालपदार्थोर्ध्वप्रचयनिरन्वयत्वमुपहन्ति -
समयो हि समयपदार्थस्य वृत्त्यंश: । तस्मिन् कस्याप्यवश्यमुत्पादप्रध्वंसौ संभवत:, परमाणोर्व्यतिपातोत्पद्यमानत्वेन कारणपूर्वत्वात् । तौ यदि वृत्त्यंशस्यैव, किं यौगपद्येन किं क्रमेण । यौगपद्येन चेत्, नास्ति यौगपद्यं, सममेकस्य विरुद्धधर्मयोरनवतारात् । क्रमेण चेत्, नास्ति क्रम:, वृत्त्यंशस्य सूक्ष्मत्वेन विभागाभावात् । ततो वृत्तिमान् कोऽप्यवश्यमनुसर्तव्य: । स च समयपदार्थ एव । तस्य खल्वेकस्मिन्नपि वृत्त्यंशे समुत्पादप्रध्वंसौ संभवत: । यो हि यस्य वृत्तिमतो यस्मिन् वृत्त्यंशे तद्वृत्त्यंशविशिष्टत्वेन नोत्पाद:, स एव तस्यैव वृत्तिमतस्तस्मिन्नेव वृत्यंशे पूर्ववृत्त्यंशविशिष्टत्वेन प्रध्वंस: ।
यद्येवमुत्पादव्ययावेकस्मिन्नपि वृत्त्यंशे संभवत: समयपदार्थस्य कथं नाम निरन्वयत्वं, यत: पूर्वोत्तरवृत्त्यंशविशिष्टत्वाभ्यां युगपदुपात्तप्रध्वंसोत्पादस्यापि स्वभावेनाप्रध्वस्ता-नुत्पन्नत्वादवस्थितत्वमेव न भवेत् ।
एवमेकस्मिन् वृत्त्यंशे समयपदार्थस्योत्पादव्ययध्रौव्यवत्त्वं सिद्धम् ॥१४२॥