GP:प्रवचनसार - गाथा 145 - तात्पर्य-वृत्ति
From जैनकोष
अतः परं शुद्धजीवस्य द्रव्यभावप्राणैः सह भेदनिमित्तं ‘सपदेसेहिं समग्गो’ इत्यादि यथाक्रमेण गाथाष्टकपर्यन्तं सामान्यभेदभावनाव्याख्यानं करोति । तद्यथा । अथज्ञानज्ञेयज्ञापनार्थं तथैवात्मनः प्राणचतुष्केन सह भेदभावनार्थं वा सूत्रमिदं प्रतिपादयति --
लोगो लोकोभवति । कथंभूतः । णिट्ठिदो निष्ठितः समाप्तिं नीतो भृतो वा । कैः कर्तृभूतैः । अट्ठेहिं सहजशुद्धबुद्धैकस्वभावो योऽसौ परमात्मपदार्थस्तत्प्रभृतयो येऽर्थास्तैः । पुनरपि किंविशिष्टः । सपदेसेहिं समग्गो स्वकीयप्रदेशैः समग्रः परिपूर्णः । अथवा पदार्थैः । कथंभूतैः । सप्रदेशैः प्रदेशसहितैः । पुनरपिकिंविशिष्टो लोकः । णिच्चो द्रव्यार्थिकनयेन नित्यः लोकाकाशापेक्षया वा । अथवा नित्यो, न केनापिपुरुषविशेषेण कृतः । जो तं जाणदि यः कर्ता तं ज्ञेयभूतं लोकं जानाति जीवो स जीवपदार्थो भवति । एतावता किमुक्तं भवति । योऽसौ विशुद्धज्ञानदर्शनस्वभावो जीवः स ज्ञानं ज्ञेयश्च भण्यते । शेषपदार्थास्तु ज्ञेया एवेति ज्ञातृज्ञेयविभागः । पुनरपि किंविशिष्टो जीवः । पाणचदुक्के ण संबद्धो यद्यपिनिश्चयेन स्वतःसिद्धपरमचैतन्यस्वभावेन निश्चयप्राणेन जीवति तथापि व्यवहारेणानादिकर्मबन्धवशादा-युराद्यशुद्धप्राणचतुष्केनापि संबद्धः सन् जीवति । तच्च शुद्धनयेन जीवस्वरूपं न भवतीति भेदभावनाज्ञातव्येत्यभिप्रायः ॥१४५॥