GP:प्रवचनसार - गाथा 149 - तात्पर्य-वृत्ति
From जैनकोष
अथ प्राणा नवतरपुद्गलकर्मबन्धस्यकारणं भवन्तीति पूर्वोक्तमेवार्थं विशेषेण समर्थयति --
पाणाबाधं आयुरादिप्राणानां बाधां पीडां कुणदि करोति । स कः । जीवो जीवः । काभ्यां कृत्वा । मोहपदेसेहिं सक लविमलके वलज्ञानप्रदीपेन मोहान्धकार-विनाशकात्परमात्मनो विपरीताभ्यां मोहप्रद्वेषाभ्यां । केषां प्राणबाधां करोति । जीवाणं एकेन्द्रियप्रमुखजीवानाम् । जदि यदि चेत् सो हवदि बंधो तदा स्वात्मोपलम्भप्राप्तिरूपान्मोक्षाद्विपरीतोमूलोत्तरप्रकृत्यादिभेदभिन्नः स परमागमप्रसिद्धो हि स्फुटं बन्धो भवति । कैः कृत्वा । णाणावरणादिकम्मेहिं ज्ञानावरणादिकर्मभिरिति । ततो ज्ञायते प्राणाः पुद्गलकर्मबन्धकारणं भवन्तीति । अयमत्रार्थः --
यथाकोऽपि तप्तलोहपिण्डेन परं हन्तुकामः सन् पूर्वं तावदात्मानमेव हन्ति, पश्चादन्यघाते नियमो नास्ति, तथायमज्ञानी जीवोऽपि तप्तलोहपिण्डस्थानीयमोहादिपरिणामेन परिणतः सन् पूर्वं निर्विकारस्वसंवेदन-ज्ञानस्वरूपं स्वकीयशुद्धप्राणं हन्ति, पश्चादुत्तरकाले परप्राणघाते नियमो नास्तीति ॥१६१॥