GP:प्रवचनसार - गाथा 156 - तात्पर्य-वृत्ति
From जैनकोष
अथोपयोगस्तावन्नरनारकादिपर्याय-कारणभूतस्य कर्मरूपस्य परद्रव्यस्य संयोगकारणं भवति । तावदिदानीं कस्य कर्मणः क उपयोगः कारणं भवतीति विचारयति --
उवओगो जदि हि सुहो उपयोगो यदि चेत् हि स्फुटं शुभो भवति । पुण्णं जीवस्स संचयं जादि तदा काले द्रव्यपुण्यं कर्तृ जीवस्य संचयमुपचयं वृद्धिं याति बध्यत इत्यर्थः । असुहो वा तह पावं अशुभोपयोगो वा तथा तेनैव प्रकारेण पुण्यवद्द्रव्यपापं संचयं याति । तेसिमभावे ण चयमत्थि तयोरभावे न चयोऽस्ति । निर्दोषिनिजपरमात्मभावनारूपेण शुद्धोपयोगबलेन यदा तयोर्द्वयोः शुभाशुभो-पयोगयोरभावः क्रियते तदोभयः संचयः कर्मबन्धो नास्तीत्यर्थः ॥१५६॥
एवं शुभाशुभशुद्धोपयोग-त्रयस्य सामान्यकथनरूपेण द्वितीयस्थले गाथाद्वयं गतम् ।