GP:प्रवचनसार - गाथा 165 - तत्त्व-प्रदीपिका
From जैनकोष
अथात्र कीदृशात्स्निग्धरूक्षत्वात्पिण्डत्वमित्यावेदयति -
समतो द्वय्यधिकगुणाद्धि स्निग्धरूक्षत्वाद्बन्ध इत्युत्सर्ग:, स्निग्धरूक्षद्बय्यधिकगुणत्वस्य हि परिणामकत्वेन बन्धसाधनत्वात् । न खल्वेकगुणात् स्निग्धरूक्षत्वाद्बन्ध इत्यपवाद:, एकगुणस्निग्धरूक्षत्वस्य हि परिणम्यपरिणामकत्वाभावेन बन्धस्यासाधनत्वात् ॥१६५॥