GP:प्रवचनसार - गाथा 165 - तात्पर्य-वृत्ति
From जैनकोष
अथात्रकीद्रशात्स्निग्धरूक्षत्वगुणात् पिण्डो भवतीति प्रश्ने समाधानं ददाति --
बज्झंति बध्यन्ते हि स्फुटम् । के । कर्मतापन्नाः अणुपरिणामा अणुपरिणामाः । अणुपरिणामशब्देनात्र परिणामपरिणताअणवो गृह्यन्ते । कथंभूताः । णिद्धा वा लुक्खा वा स्निग्धपरिणामपरिणता वा रूक्षपरिणामपरिणता। पुनरपि किंविशिष्टाः । समा व विसमा वा द्विशक्तिचतुःशक्तिषट्शक्त्यादिपरिणतानां समइति संज्ञा, त्रिशक्तिपञ्चशक्तिसप्तशक्यादिपरिणतानां विषम इति संज्ञा । पुनश्च किंरूपाः । समदो दुराधिगा जदि समतः समसंख्यानात्सकाशाद् द्वाभ्यां गुणाभ्यामधिका यदि चेत् । कथं द्विगुणाधिकत्वमिति चेत् । एको द्विगुणस्तिष्ठति द्वितीयोऽपि द्विगुण इति द्वौ समसंख्यानौ तिष्ठतस्तावत् एक स्यविवक्षितद्विगुणस्य द्विगुणाधिक त्वे कृ ते सति सः चतुर्गुणो भवति शक्तिचतुष्टयपरिणतो भवति । तस्यचतुर्गुणस्य पूर्वोक्तद्विगुणेन सह बन्धो भवतीति । तथैव द्वौ त्रिशक्तियुक्तो तिष्ठतस्तावत्, तत्राप्येकस्यत्रिगुणशब्दाभिधेयस्य त्रिशक्तियुक्तस्य परमाणोः शक्तिद्वयमेलापके कृते सति पञ्चगुणत्वं भवति । तेनपञ्चगुणेन सह पूर्वोक्तत्रिगुणस्य बन्धो भवति । एवं द्वयोर्द्वयोः स्निग्धयोर्द्वयोर्द्वयो रूक्षयोर्द्वयोर्द्वयोःस्निग्धरूक्षयोर्वा समयोः विषमयोश्च द्विगुणाधिक त्वे सति बन्धो भवतीत्यर्थः, किंतु विशेषोऽस्ति ।आदिपरिहीणा आदिशब्देन जलस्थानीयं जघन्यस्निग्धत्वं वालुकास्थानीयं जघन्यरूक्षत्वं भण्यते, ताभ्यांविहीना आदिपरिहीणा बध्यन्ते । किंच – परमचैतन्यपरिणतिलक्षणपरमात्मतत्त्वभावनारूपधर्मध्यान-शुक्लध्यानबलेन यथा जधन्यस्निग्धशक्तिस्थानीये क्षीणरागत्वे सति जधन्यरूक्षशक्तिस्थानीये क्षीणद्वेषत्वे च सति जलवालुकयोरिव जीवस्य बन्धो न भवति, तथा पुद्गलपरमाणोरपि जघन्यस्निग्ध-रूक्षशक्तिप्रस्तावे बन्धो न भवतीत्यभिप्रायः ॥१६५॥