GP:प्रवचनसार - गाथा 178 - तत्त्व-प्रदीपिका
From जैनकोष
अथ द्रव्यबन्धस्य भावबन्धहेतुकत्वमु-ज्जीवयति -
अयमात्मा लोकाकाशतुल्यासंख्येयप्रदेशत्वात्सप्रदेश: । अथ तेषु तस्य प्रदेशेषु कायवाङ्मनोवर्गणालम्बन: परिस्पन्दो यथा भवति तथा कर्मपुद्गलकाया: स्वयमेव परिस्पन्दवन्त: प्रविशन्त्यपि तिष्ठन्त्यपि गच्छन्त्यपि च । अस्ति चेज्जीवस्य मोहरागद्वेषरूपो भावो बध्यंतेऽपि च । ततोऽवधार्यते द्रव्यबन्धस्य भावबन्धो हेतु: ॥१७८॥