GP:प्रवचनसार - गाथा 18 - तत्त्व-प्रदीपिका
From जैनकोष
अथोत्पादादित्रयं सर्वद्रव्यसाधारणत्वेन शुद्धात्मनोऽप्यवश्यंभावीति विभावयति -
यथा हि जात्यजाम्बूनदस्याङ्गदपर्यायेणोत्पत्तिर्दृष्टा, पूर्वव्यवस्थितांगुलीयकादिपर्यायेण च विनाश:, पीततादिपर्यायेण तूभयत्राप्युत्पत्तिविनाशावनासादयत: ध्रुवत्वम्; एवमखिलद्रव्याणां केनचित्पर्यायेणोत्पाद: केनचिद्विनाश: केनचिद्ध्रौव्यमित्यवबोद्धव्यम् । अत: शुद्धात्मनोऽप्युत्पादादित्रयरूपं द्रव्यलक्षणभूतमस्तित्वमवश्यंभावि ॥१८॥