GP:प्रवचनसार - गाथा 196 - तात्पर्य-वृत्ति
From जैनकोष
अथ निजशुद्धात्मैकाग्रयलक्षणध्यानमात्मनोऽत्यन्तविशुद्धिं करोतीत्यावेदयति --
जो खविदमोहकलुसो यःक्षपितमोहकलुषः, मोहो दर्शनमोहः कलुषश्चारित्रमोहः, पूर्वसूत्रद्वयकथितक्रमेण क्षपितमोहकलुषौ येन स भवति क्षपितमोहकलुषः । पुनरपि किंविशिष्टः । विसयविरत्तो मोहकलुषरहितस्वात्मसंवित्तिसमुत्पन्न-सुखसुधारसास्वादबलेन कलुषमोहोदयजनितविषयसुखाकाङ्क्षारहितत्वाद्विषयविरक्तः । पुनरपिकथंभूतः । समवट्ठिदो सम्यगवस्थितः । क्व । सहावे निजपरमात्मद्रव्यस्वभावे । किं कृत्वा पूर्वम् । मणो णिरुंभित्ता विषयकषायोत्पन्नविकल्पजालरूपं मनो निरुध्य निश्चलं कृत्वा । सो अप्पाणं हवदि झादा सएवंगुणयुक्तः पुरुषः स्वात्मानं भवति ध्याता । तेनैव शुद्धात्मध्यानेनात्यन्तिकीं मुक्तिलक्षणां शुद्धिं लभत इति । ततः स्थितं शुद्धात्मध्यानाज्जीवो विशुद्धो भवतीति । किंच ध्यानेन किलात्मा शुद्धो जातः तत्रविषये चतुर्विधव्याख्यानं क्रियते । तथाहि — ध्यानं ध्यानसन्तानस्तथैव ध्यानचिन्ता ध्यानान्वय-सूचनमिति । तत्रैकाग्रचिन्तानिरोधो ध्यानम् । तच्च शुद्धाशुद्धरूपेण द्विधा । अथ ध्यानसन्तानः कथ्यते —यत्रान्तर्मुहूर्तपर्यन्तं ध्यानं, तदनन्तरमन्तर्मुहूर्तपर्यन्तं तत्त्वचिन्ता, पुनरप्यन्तर्मुहूर्तपर्यन्तं ध्यानं, पुनरपि तत्त्वचिन्तेति प्रमत्ताप्रमत्तगुणस्थानवदन्तर्मुहूर्तेऽन्तर्मुहूर्ते गते सति परावर्तनमस्ति स ध्यानसन्तानो भण्यते । स च धर्म्यध्यानसंबन्धी । शुक्लध्यानं पुनरुपशमश्रेणिक्षपकश्रेण्यारोहणे भवति । तत्रचाल्पकालत्वात्परावर्तनरूपध्यानसन्तानो न घटते । इदानीं ध्यानचिन्ता कथ्यते – यत्र ध्यानसन्तान-वद्धयानपरावर्तो नास्ति, ध्यानसंबन्धिनी चिन्तास्ति, तत्र यद्यपि क्वापि काले ध्यानं करोति तथापि सा ध्यानचिन्ता भण्यते । अथ ध्यानान्वयसूचनं कथ्यते — यत्र ध्यानसामग्रीभूता द्वादशानुप्रेक्षा अन्यद्वाध्यानसंबन्धि संवेगवैराग्यवचनं व्याख्यानं वा तत् ध्यानान्वयसूचनमिति । अन्यथा वा चतुर्विधंध्यानव्याख्यानं – ध्याता ध्यानं फलं ध्येयमिति । अथवार्तरौद्रधर्म्यशुक्लविभेदेन चतुर्विधं ध्यानव्याख्यानं तदन्यत्र कथितमास्ते ॥१९६॥
एवमात्मपरिज्ञानाद्दर्शनमोहक्षपणं भवतीति कथनरूपेण प्रथमगाथा,दर्शनमोहक्षयाच्चारित्रमोहक्षपणं भवतीति कथनेन द्वितीया, तदुभयक्षयेण मोक्षो भवतीति प्रतिपादनेन तृतीया चेत्यात्मोपलम्भफ लकथनरूपेण द्वितीयस्थले गाथात्रयं गतम् ।