GP:प्रवचनसार - गाथा 202 - तात्पर्य-वृत्ति
From जैनकोष
अथ श्रमणोभवितुमिच्छन्पूर्वं क्षमितव्यं करोति -- 'उवठ्ठिदो होदि सो समणो' इत्यग्रे षष्ठगाथायां यद्वयाख्यानं तिष्ठतितन्मनसि धृत्वा पूर्वं किं कृत्वा श्रमणो भविष्यतीति व्याख्याति --
आपिच्छ आपृच्छय पृष्टवा । कम् । बंधुवग्गं बन्धुवर्गं गोत्रम् । ततः कथंभूतो भवति । विमोचिदो विमोचितस्त्यक्तो भवति । कैः कर्तृभूतैः । गुरुकलत्तपुत्तेहिं पितृमातृकलत्रपुत्रैः । पुनरपि किं कृत्वा श्रमणो भविष्यति । आसिज्ज आसाद्य आश्रित्य । कम् । णाणदंसणचरित्ततववीरियायारं ज्ञानदर्शनचारित्रतपोवीर्याचारमिति । अथ विस्तरः --
अहो बन्धुवर्ग-पितृमातृकलत्रपुत्राः, अयं मदीयात्मा सांप्रतमुद्भिन्नपरमविवेकज्योतिस्सन् स्वकीयचिदानन्दैकस्वभावं परमात्मानमेव निश्चयनयेनानादिबन्धुवर्गं पितरं मातरं कलत्रं पुत्रं चाश्रयति, तेन कारणेन मां मुञ्चत यूयमिति क्षमितव्यं करोति । ततश्च किं करोति । परमचैतन्यमात्रनिजात्मतत्त्वसर्वप्रकारोपादेय-रुचिपरिच्छित्तिनिश्चलानुभूतिसमस्तपरद्रव्येच्छानिवृत्तिलक्षणतपश्चरणस्वशक्त्यनवगूहनवीर्याचाररूपं निश्चयपञ्चाचारमाचारादिचरणग्रन्थकथिततत्साधकव्यवहारपञ्चाचारं चाश्रयतीत्यर्थः । अत्र यद्गोत्रादिभिःसह क्षमितव्यव्याख्यानं कृतं तदत्रातिप्रसंगनिषेधार्थम् । तत्र नियमो नास्ति । कथमिति चेत् । पूर्वकालेप्रचुरेण भरतसगररामपाण्डवादयो राजान एव जिनदीक्षां गृह्णन्ति, तत्परिवारमध्ये यदा कोऽपि मिथ्यादृष्टिर्भवति तदा धर्मस्योपसर्गं करोतीति । यदि पुनः कोऽपि मन्यते गोत्रसम्मतं कृत्वा पश्चात्तपश्चरणं करोमि तस्य प्रचुरेण तपश्चरणमेव नास्ति, कथमपि तपश्चरणे गृहीतेऽपि यदि गोत्रादि-ममत्वं करोति तदा तपोधन एव न भवति । तथाचोक्तम् -- ॥२१६॥
((जो सकलणयररज्जं पुव्वं चइऊण कुणइय ममत्तिं ।
सो णवरि लिंगधारी संजमसारेण णिस्सारो ॥))