GP:प्रवचनसार - गाथा 203 - तात्पर्य-वृत्ति
From जैनकोष
अथ जिनदीक्षार्थी भव्यो जैनाचार्य-माश्रयति --
समणं निन्दाप्रशंसादिसमचित्तत्वेन पूर्वसूत्रोदितनिश्चयव्यवहारपञ्चाचारस्याचरणाचारण-प्रवीणत्वात् श्रमणम् । गुणड्ढं चतुरशीतिलक्षगुणाष्टादशसहस्रशीलसहकारिकारणोत्तमनिजशुद्धात्मानुभूति-गुणेनाढयं भृतं परिपूर्णत्वाद्गुणाढयम् । कुलरूववयोविसिट्ठं लोकदुगुंच्छारहितत्वेन जिनदीक्षायोग्यं कुलं भण्यते । अन्तरङ्गशुद्धात्मानुभूतिज्ञापकं निर्ग्रन्थनिर्विकारं रूपमुच्यते । शुद्धात्मसंवित्तिविनाशकारिवृद्ध-बालयौवनोद्रेकजनितबुद्धिवैकल्यरहितं वयश्चेति । तैः कुलरूपवयोभिर्विशिष्टत्वात् कुलरूपवयो-विशिष्टम् । इट्ठदरं इष्टतरं सम्मतम् । कैः । समणेहिं निजपरमात्मतत्त्वभावनासहितसमचित्तश्रमणैर-न्याचार्यैः । गणिं एवंविधगुणविशिष्टं परमात्मभावनासाधकदीक्षादायकमाचार्यम् । तं पि पणदो न केवलंतमाचार्यमाश्रितो भवति, प्रणतोऽपि भवति । केन रूपेण । पडिच्छ मं हे भगवन्, अनन्तज्ञानादि-जिनगुणसंपत्तिकारणभूताया अनादिकालेऽत्यन्तदुर्लभाया भावसहितजिनदीक्षायाः प्रदानेन प्रसादेन मां प्रतीच्छ स्वीकुरु । चेदि अणुगहिदो न केवलं प्रणतो भवति, तेनाचार्येणानुगृहीतः स्वीकृतश्च भवति । हेभव्य, निस्सारसंसारे दुर्लभबोधिं प्राप्य निजशुद्धात्मभावनारूपया निश्चयचतुर्विधाराधनया मनुष्यजन्म सफलं कुर्वित्यनेन प्रकारेणानुगृहीतो भवतीत्यर्थः ॥२०३॥