GP:प्रवचनसार - गाथा 224.2 - तात्पर्य-वृत्ति
From जैनकोष
अथ परिहारमाह --
णिच्छयदो इत्थीणं सिद्धी ण हि तेण जम्मणा दिट्ठा निश्चयतः स्त्रीणां नरकादिगतिविलक्षणानन्त-सुखादिगुणस्वभावा तेनैव जन्मना सिद्धिर्न द्रष्टा, न कथिता । तम्हा तप्पडिरूवं तस्मात्कारणात्तत्प्रतियोग्यं सावरणरूपं वियप्पियं लिंगमित्थीणं निर्ग्रन्थलिङ्गात्पृथक्त्वेन विकल्पितं कथितं लिङ्गं प्रावरणसहितं चिह्नम् ।कासाम् । स्त्रीणामिति ॥२४५॥