GP:प्रवचनसार - गाथा 229 - तत्त्व-प्रदीपिका
From जैनकोष
अथ युक्ताहारस्वरूपं विस्तरेणोपदिशति -
एककाल एवाहारो युक्ताहार:, तावतैव श्रामण्यपर्यायसहकारिकारणशरीरस्य धारणत्वात् । अनेककालस्तु शरीरानुरागसेव्यमानत्वेन प्रसह्य हिंसायतनीक्रियमाणो न युक्त:, शरीरानुराग-सेवकत्वेन न च युक्तस्य । अप्रतिपूर्णोदर एवाहारो युक्ताहार: तस्यैवाप्रतिहतयोगत्वात् । प्रति-पूर्णोदरस्तु प्रतिहतयोगत्वेन कथंचित् हिंसायतनीभवन् न युक्त:, प्रतिहतयोगत्वेन न च युक्तस्य ।
यथालब्ध एवाहारो युक्ताहार: तस्यैव विशेषप्रियत्वलक्षणानुरागशून्यत्वात् । अयथालब्धस्तु विशेषप्रियत्वलक्षणानुरागसेव्यमानत्वेन प्रसह्य हिंसायतनीक्रियमाणो न युक्त:, विशेषप्रियत्वलक्षणानुरागसेवकत्वेन न च युक्तस्य । भिक्षाचरणेनैवाहारो युक्ताहार:, तस्यैवारम्भशून्यत्वात् । अभैक्षाचरणेन त्वारम्भसंभवात्प्रसिद्धहिंसायतनत्वेन न युक्त:, एवंविधाहारसेवनव्यक्तान्तर-शुद्धित्वान्न च युक्तस्य ।
दिवस एवाहारो युक्ताहार:, तदेव सम्यगवलोकनात् । अदिवसे तु सम्यगलोकनाभावाद-निवार्यहिंसायतनत्वेन न युक्त:, एवंविधाहारसेवनव्यक्तान्तरशुद्धित्वान्न च युक्तस्य ।
अरसापेक्ष एवाहारो युक्ताहार:, तस्यैवान्त:शुद्धिसुन्दरत्वात् । रसापेक्षस्तु अन्तरशुद्धया प्रसह्य हिंसायतनीक्रियमाणो न युक्त:, अन्तरशुद्धिसेवकत्वेन न च युक्तस्य ।
अमधुमांस एवाहारो युक्ताहार:, तस्यैवाहिंसायतनत्वात् । समधुमांसस्तु हिंसायतनत्वान्न युक्त: । एवंविधाहारसेवनव्यक्तान्तरशुद्धित्वान्न च युक्तस्य । मधुमांसमत्र हिंसायतनोपलक्षणं, तेन समस्तहिंसायतनशून्य एवाहारो युक्ताहार: ॥२२९॥