GP:प्रवचनसार - गाथा 229 - तात्पर्य-वृत्ति
From जैनकोष
अथयुक्ताहारत्वं विस्तरेणाख्याति --
एक्कं खलु तं भत्तं एककाल एव खलु हि स्फुटं स भक्त आहारो युक्ताहारः । कस्मात् । एकभक्तेनैव निर्विकल्पसमाधिसहकारिकारणभूतशरीरस्थितिसंभवात् । स च कथंभूतः । अप्पडिपुण्णोदरं यथाशक्त्या न्यूनोदरः । जहालद्धं यथालब्धो, न च स्वेच्छालब्धः । चरणं भिक्खेण भिक्षाचरणेनैव लब्धो, न च स्वपाकेन । दिवा दिवैव, न च रात्रौ । ण रसावेक्खं रसापेक्षो न भवति,किंतु सरसविरसादौ समचित्तः । ण मधुमंसं अमधुमांसः, अमधुमांस इत्युपलक्षणेन आचारशास्त्र-कथितपिण्डशुद्धिक्रमेण समस्तायोग्याहाररहित इति । एतावता किमुक्तं भवति । एवंविशिष्टविशेषणयुक्तएवाहारस्तपोधनानां युक्ताहारः । कस्मादिति चेत् । चिदानन्दैकलक्षणनिश्चयप्राणरक्षणभूता रागादि-विकल्पोपाधिरहिता या तु निश्चयनयेनाहिंसा, तत्साधकरूपा बहिरङ्गपरजीवप्राणव्यपरोपणनिवृत्तिरूपा द्रव्याहिंसा च, सा द्विविधापि तत्र युक्ताहारे संभवति । यस्तु तद्विपरीतः स युक्ताहारो न भवति ।कस्मादिति चेत् । तद्विलक्षणभूताया द्रव्यभावरूपाया हिंसायाः सद्भावादिति ॥२६०॥