GP:प्रवचनसार - गाथा 230 - तात्पर्य-वृत्ति
From जैनकोष
अथ निश्चयव्यवहारसंज्ञयोरुत्सर्गापवादयोः कथंचित्परस्परसापेक्षभावं स्थापयन् चारित्रस्य रक्षां दर्शयति --
चरदु चरतु, आचरतु । किम् । चरियं चारित्रमनुष्ठानम् । कथंभूतम् । सजोग्गं स्वयोग्यं,स्वकीयावस्थायोग्यम् । कथं यथा भवति । मूलच्छेदो जधा ण हवदि मूलच्छेदो यथा न भवति । स कःकर्ता चरति । बालो वा वुड्ढो वा समभिहदो वा पुणो गिलाणो वा बालो वा, वृद्धो वा, श्रमेणाभिहतः पीडितःश्रमाभिहतो वा, ग्लानो व्याधिस्थो वेति । तद्यथा --
उत्सर्गापवादलक्षणं कथ्यते तावत् । स्वशुद्धात्मनः सकाशादन्यद्बाह्याभ्यन्तरपरिग्रहरूपं सर्वं त्याज्यमित्युत्सर्गो निश्चयनयः सर्वपरित्यागः परमोपेक्षासंयमो वीतरागचारित्रं शुद्धोपयोग इति यावदेकार्थः । तत्रासमर्थः पुरुषः शुद्धात्मभावनासहकारिभूतं किमपिप्रासुकाहारज्ञानोपकरणादिकं गृह्णातीत्यपवादो व्यवहारनय एकदेशपरित्यागः तथाचापहृतसंयमः सरागचारित्रं शुभोपयोग इति यावदेकार्थः । तत्र शुद्धात्मभावनानिमित्तं सर्वत्यागलक्षणोत्सर्गेदुर्धरानुष्ठाने प्रवर्तमानस्तपोधनः शुद्धात्मतत्त्वसाधकत्वेन मूलभूतसंयमस्य संयमसाधकत्वेन मूलभूतशरीरस्य वा यथा छेदो विनाशो न भवति तथा किमपि प्रासुकाहारादिकं गृह्णातीत्यपवादसापेक्ष उत्सर्गो भण्यते । यदा पुनरपवादलक्षणेऽपहृतसंयमे प्रवर्तते तदापि शुद्धात्मतत्त्वसाधकत्वेनमूलभूतसंयमस्य संयमसाधकत्वेन मूलभूतशरीरस्य वा यथोच्छेदो विनाशो न भवति तथोत्सर्गसापेक्षत्वेन प्रवर्तते । तथा प्रवर्तते इति कोऽर्थः । यथा संयमविराधना न भवतितथेत्युत्सर्गसापेक्षोऽपवाद इत्यभिप्रायः ॥२३०॥