GP:प्रवचनसार - गाथा 233 - तात्पर्य-वृत्ति
From जैनकोष
अथागमपरिज्ञानहीनस्य कर्मक्षपणं न भवतीति प्ररूपयति --
आगमहीणो समणो णेवप्पाणं परं वियाणादि आगमहीनः श्रमणो नैवात्मानं परं वा विजानाति; अविजाणंतो अत्थे अविजानन्नर्थान्परमात्मादिपदार्थान् खवेदि कम्माणि किध भिक्खू क्षपयति कर्माणि कथं भिक्षुः, न कथमपिइति । इतो विस्तरः -- ((गुणजीवा पज्जत्ती पाणा सण्णा य मग्गणाओ य ।
उवओगोवि य कमसो वीसंतु परूवणा भणिदा ॥))
इति गाथाकथिताद्यागममजानन्, तथैव ((भिण्णउ जेण ण जाणियउ णियदेहहंपरमत्थु ।
सो अंधउ अवरहं अंधयहं कि म दरिसावइ पंथु ॥))
इति दोहकसूत्रकथिताद्यागमपदसारभूतम-ध्यात्मशास्त्रं चाजानन् पुरुषो रागादिदोषरहिताव्याबाधसुखादिगुणस्वरूपनिजात्मद्रव्यस्य भावकर्म-शब्दाभिधेयै रागादिनानाविकल्पजालैर्निश्चयेन कर्मभिः सह भेदं न जानाति, तथैव कर्मारिविध्वंसक-स्वकीयपरमात्मतत्त्वस्य ज्ञानावरणादिद्रव्यकर्मभिरपि सह पृथक्त्वं न वेत्ति, तथाचाशरीरलक्षणशुद्धात्म-पदार्थस्य शरीरादिनोकर्मभिः सहान्यत्वं न जानाति । इत्थंभूतभेदज्ञानाभावाद्देहस्थमपि निजशुद्धात्मानं नरोचते, समस्तरागादिपरिहारेण न च भावयति । ततश्च कथं कर्मक्षयो भवति, न कथमपीति । ततःकारणान्मोक्षार्थिना परमागमाभ्यास एव कर्तव्य इति तात्पर्यार्थः ॥२६७॥