GP:प्रवचनसार - गाथा 243 - तत्त्व-प्रदीपिका
From जैनकोष
अथानैकाग्र्यस्य मोक्षमार्गत्वं विघटयति -
यो हि न खलु ज्ञानात्मानमात्मानमेकमग्रं भावयति, सोऽवश्यं ज्ञेयभूतंद्रव्यमन्यदासीदति । तदासाद्य च ज्ञानात्मात्मज्ञानाद्भ्रष्ट: स्वयमज्ञानीभूतो मुह्यति वा, रज्यति वा, द्वेष्टि वा, तथाभूतश्च बध्यत एव, न तु विमुच्यते । अत अनैकाग्र्यस्य न मोक्षमार्गत्वं सिद्धय्येत् ॥२४३॥