GP:प्रवचनसार - गाथा 267 - तात्पर्य-वृत्ति
From जैनकोष
अथस्वयमधिकगुणाः सन्तो यदि गुणाधरैः सह वन्दनादिक्रियासु वर्तन्ते तदा गुणविनाशं दर्शयति --
वट्टंति वर्तन्ते प्रवर्तन्ते जदि यदि चेत् । क्व वर्तन्ते । किरियासु वन्दनादिक्रियासु । कैः सह । गुणाधरेहिं गुणाधरैर्गुणरहितैः । स्वयं कथंभूताः सन्तः । अधिगगुणा अधिकगुणाः । क्व । सामण्णे श्रामण्ये चारित्रे । ते मिच्छत्तपउत्ता हवंति ते कथंचिदतिप्रसंगान्मिथ्यात्वप्रयुक्ता भवन्ति । न केवलं मिथ्यात्वप्रयुक्ताः, पब्भट्ठचारित्ता प्रभ्रष्टचारित्राश्च भवन्ति । तथाहि --
यदि बहुश्रुतानां पार्श्वे ज्ञानादिगुणवृद्धयर्थं स्वयंचारित्रगुणाधिका अपि वन्दनादिक्रियासु वर्तन्ते तदा दोषो नास्ति । यदि पुनः केवलं ख्यातिपूजालाभार्थं वर्तन्ते तदातिप्रसंगाद्दोषो भवति । इदमत्र तात्पर्यम् --
वन्दनादिक्रियासु वा तत्त्वविचारादौ वा यत्ररागद्वेषोत्पत्तिर्भवति तत्र सर्वत्र दोष एव । ननु भवदीयकल्पनेयमागमे तथा नास्ति । नैवम्, आगमःसर्वोऽपि रागद्वेषपरिहारार्थ एव, परं किंतु ये केचनोत्सर्गापवादरूपेणागमनयविभागं न जानन्ति त एव रागद्वेषौ कुर्वन्ति, न चान्य इति ॥३०६॥
इति पूर्वोक्तक्रमेण 'एयग्गगदो' इत्यादिचतुर्दशगाथाभिःस्थलचतुष्टयेन श्रामण्यापरनामा मोक्षमार्गाभिधानस्तृतीयोऽन्तराधिकारः समाप्तः ।
अथानन्तरंद्वात्रिंशद्गाथापर्यन्तं पञ्चभिः स्थलैः शुभोपयोगाधिकारः कथ्यते । तत्रादौ लौकिकसंसर्गनिषेधमुख्यत्वेन 'णिच्छिदसुत्तत्थपदो' इत्यादिपाठक्रमेण गाथापञ्चकम् । तदनन्तरं सरागसंयमापरनामशुभोपयोग – स्वरूपकथनप्रधानत्वेन 'समणा सुद्धुवजुत्ता' इत्यादि सूत्राष्टकम् । ततश्च पात्रापात्रपरीक्षाप्रतिपादनरूपेण 'रागो पसत्थभूदो' इत्यादि गाथाषष्टकम् । ततः परमाचारादिविहितक्रमेण पुनरपि संक्षेपरूपेण समाचार-व्याख्यानप्रधानत्वेन 'दिट्ठा पगदं वत्थु' इत्यादि सूत्राष्टकम् । ततः परं पञ्चरत्नमुख्यत्वेन 'जे अजधागहिदत्था' इत्यादि गाथापञ्चकम् । एवं द्वात्रिंशद्गाथाभिः स्थलपञ्चकेन चतुर्थान्तराधिकारेसमुदायपातनिका । तद्यथा --