GP:प्रवचनसार - गाथा 27 - तात्पर्य-वृत्ति
From जैनकोष
अथज्ञानमात्मा भवति, आत्मा तु ज्ञानं सुखादिकं वा भवतीति प्रतिपादयति --
णाणं अप्प त्ति मदं ज्ञानमात्माभवतीति मतं सम्मतम् । कस्मात् । वट्टदि णाणं विणा ण अप्पाणं ज्ञानं कर्तृ विनात्मानं जीवमन्यत्र घटपटादौ न वर्तते । तम्हा णाणं अप्पा तस्मात् ज्ञायते कथंचिज्ज्ञानमात्मैव स्यात् । इति गाथापादत्रयेणज्ञानस्य कथंचिदात्मत्वं स्थापितम् । अप्पा णाणं व अण्णं वा आत्मा तु ज्ञानधर्मद्वारेण ज्ञानं भवति,सुखवीर्यादिधर्मद्वारेणान्यद्वा नियमो नास्तीति । तद्यथा --
यदि पुनरेकान्तेन ज्ञानमात्मेति भण्यते तदाज्ञानगुणमात्र एवात्मा प्राप्तः सुखादिधर्माणामवकाशो नास्ति । तथा सुखवीर्यादिधर्मसमूहाभावादात्मा-भावः, आत्मन आधारभूतस्याभावादाधेयभूतस्य ज्ञानगुणस्याप्यभावः, इत्येकान्ते सति द्वयोरप्यभावः । तस्मात्कथंचिज्ज्ञानमात्मा न सर्वथेति । अयमत्राभिप्राय: -
आत्मा व्यापको ज्ञानं व्याप्यं ततोज्ञानमात्मा स्यात्, आत्मा तु ज्ञानमन्यद्वा भवतीति । तथा चोक्तम् - ((व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्ठमेव च)) ॥२७॥