GP:प्रवचनसार - गाथा 39 - तत्त्व-प्रदीपिका
From जैनकोष
अथैतदैवासद्भूतानां ज्ञानप्रत्यक्षत्वं दृढ़यति –
यदि खल्वसंभावितभावं संभावितभावं च पर्यायजातमप्रतिघविजृम्भिताखण्डितप्रताप-प्रभुशक्तितया प्रसभेनैव नितान्तमाक्रम्यक्रमसमर्पितस्वरूपसर्वस्वमात्मानं प्रतिनियतं ज्ञानं न करोति, तदा तस्य कुतस्तनी दिव्यता स्यात् । अत: काष्ठाप्राप्तस्य परिच्छेदस्य सर्वमेतदुपपन्नम् ॥३९॥