GP:प्रवचनसार - गाथा 43 - तत्त्व-प्रदीपिका
From जैनकोष
अथ कुतस्तर्हि ज्ञेयार्थपरिणमनलक्षणा क्रिया तत्फलं च भवतीति विवेचयति -
संसारिणो हि नियमेन तावदुदयगता: पुद्गलकर्मांशा: सन्त्येव । अथ स सत्सु तेषु संचेतयमानो मोहरागद्वेषपरिणतत्वात् ज्ञेयार्थपरिणमनलक्षणया क्रियया युज्यते । तत एव च क्रियाफलभूतं बन्धमनुभवति । अतो मोहोदयात् क्रियाक्रियाफले, न तु ज्ञानात् ॥४३॥