GP:प्रवचनसार - गाथा 46 - तात्पर्य-वृत्ति
From जैनकोष
अथ यथार्हतांशुभाशुभपरिणामविकारो नास्ति तथैकान्तेन संसारिणामपि नास्तीति सांख्यमतानुसारिशिष्येण पूर्वपक्षे कृते सति दूषणद्वारेण परिहारं ददाति --
जदि सो सुहो व असुहो ण हवदि आदा सयं सहावेण यथैवशुद्धनयेनात्मा शुभाशुभाभ्यां न परिणमति तथैवाशुद्धनयेनापि स्वयं स्वकीयोपादानकारणेन स्वभावेनाशुद्धनिश्चयरूपेणापि यदि न परिणमति तदा । किं दूषणं भवति । संसारो वि ण विज्जदि निस्संसारशुद्धात्मस्वरूपात्प्रतिपक्षभूतो व्यवहारनयेनापि संसारो न विद्यते । केषाम् । सव्वेसिं जीवकायाणं सर्वेषां जीवसंघातानामिति । तथा हि --
आत्मा तावत्परिणामी, स च कर्मोपाधिनिमित्ते सतिस्फटिकमणिरिवोपाधिं गृह्णाति, ततः कारणात्संसाराभावो न भवति । अथ मतम् --
संसाराभावः सांख्यानां दूषणं न भवति, भूषणमेव । नैवम् । संसाराभावो हि मोक्षो भण्यते, स च संसारिजीवानांन दृश्यते, प्रत्यक्षविरोधादिति भावार्थः ॥४६॥
एवं रागादयो बन्धकारणं, न च ज्ञानमित्यादि-व्याख्यानमुख्यत्वेन षष्ठस्थले गाथापञ्चकं गतम् । अथ प्रथमं तावत् केवलज्ञानमेव सर्वज्ञस्वरूपं, तदनन्तरं सर्वपरिज्ञाने सति एकपरिज्ञानं, एकपरिज्ञाने सति सर्वपरिज्ञानमित्यादिकथनरूपेण गाथापञ्चकपर्यन्तं व्याख्यानं करोति । तद्यथा --