GP:प्रवचनसार - गाथा 60 - तात्पर्य-वृत्ति
From जैनकोष
अथानन्तपदार्थ-परिच्छेदनात्केवलज्ञानेऽपि खेदोऽस्तीति पूर्वपक्षे सति परिहारमाह --
जं केवलं ति णाणं तं सोक्खं यत्केवलमिति ज्ञानं तत्सौख्यं भवति, तस्मात् खेदो तस्स ण भणिदो तस्य केवलज्ञानस्य खेदो दुःखं नभणितम् । तदपि कस्मात् । जम्हा घादी खयं जादा यस्मान्मोहादिघातिकर्माणि क्षयं गतानि । तर्हितस्यानन्तपदार्थपरिच्छित्तिपरिणामो दुःखकारणं भविष्यति । नैवम् । परिणमं च सो चेव तस्यकेवलज्ञानस्य संबन्धी परिणामश्च स एव सुखरूप एवेति । इदानीं विस्तरः --
ज्ञानदर्शनावरणोदये सतियुगपदर्थान् ज्ञातुमशक्यत्वात् क्रमकरणव्यवधानग्रहणे खेदो भवति, आवरणद्वयाभावे सति युगपद्ग्रहणे
केवलज्ञानस्य खेदो नास्तीति सुखमेव । तथैव तस्य भगवतो जगत्त्रयकालत्रयवर्तिसमस्तपदार्थ-युगपत्परिच्छित्तिसमर्थमखण्डैकरूपं प्रत्यक्षपरिच्छित्तिमयं स्वरूपं परिणमत्सत् केवलज्ञानमेव परिणामो, न च केवलज्ञानाद्भिन्नपरिणामोऽस्ति येन खेदो भविष्यति । अथवा परिणामविषये द्वितीयव्याख्यानंक्रियते --
युगपदनन्तपदार्थपरिच्छित्तिपरिणामेऽपि वीर्यान्तरायनिरवशेषक्षयादनन्तवीर्यत्वात् खेदकारणं नास्ति, तथैव च शुद्धात्मसर्वप्रदेशेषु समरसीभावेन परिणममानानां सहजशुद्धानन्दैकलक्षणसुख-रसास्वादपरिणतिरूपामात्मनः सकाशादभिन्नामनाकुलतां प्रति खेदो नास्ति । संज्ञालक्षणप्रयोजनादि-भेदेऽपि निश्चयेनाभेदरूपेण परिणममानं केवलज्ञानमेव सुखं भण्यते । ततः स्थितमेतत्केवलज्ञानाद्भिन्नंसुखं नास्ति । तत एव केवलज्ञाने खेदो न संभवतीति ॥६०॥