GP:प्रवचनसार - गाथा 61 - तत्त्व-प्रदीपिका
From जैनकोष
अथ पुनरपि केवलस्य सुखस्वरूपतां निरूपयन्नुपसंहरति -
स्वभावप्रतिघाताभावहेतुकं हि सौख्यम् । आत्मनो हि दृशिज्ञप्ती स्वभाव: तयोर्लोकालोक-विस्तृतत्वेनार्थान्तगतत्वेन च स्वच्छन्दविजृम्भितत्वाद्भवति प्रतिघाताभाव: । ततस्तद्धेतुकं सौख्यमभेदविवक्षायां केवलस्य स्वरूपम् । किंच केवलं सौख्यमेव; सर्वानिष्टप्रहाणात्, सर्वेष्टोपलम्भाच्च । यतो हि केवलावस्थायां सुखप्रतिपत्तिविपक्षभूतस्य दु:खस्य साधनतामुपगतमज्ञानमखि-लमेव प्रणश्यति, सुखस्य साधनीभूतं तु परिपूर्णं ज्ञानमुपजायेत, तत: केवलमेव सौख्य-मित्यलं प्रपञ्चेन ॥६१॥