GP:प्रवचनसार - गाथा 67 - तत्त्व-प्रदीपिका
From जैनकोष
अथात्मन: स्वयमेव सुखपरिणामशक्तियोगित्वाद्विषयाणामकिंचित्करत्वं द्योतयति -
यथा हि केषांचिन्नक्तंचराणां चक्षुष: स्वयमेव तिमिरविकरणशक्तियोगित्वान्न तदपाकरण-प्रवणेन प्रदीपप्रकाशादिना कार्यं, एवमस्यात्मन: संसारे मुक्तौ वा स्वयमेव सुखतया परिणम-मानस्य सुखसाधनधिया अबुधैर्मुधाध्यास्यमाना अपि विषया: किं हि नाम कुर्यु: ॥६७॥