GP:प्रवचनसार - गाथा 6 - तात्पर्य-वृत्ति
From जैनकोष
अथोपादेयभूतस्यातीन्द्रियसुखस्य कारणत्वाद्वीतरागचारित्रमुपादेयम् ।अतीन्द्रियसुखापेक्षया हेयस्येन्द्रियसुखस्य कारणत्वात्सरागचारित्रं हेयमित्युपदिशति --
संपज्जदि सम्पद्यते । किम् । णिव्वाणं निर्वाणम् । कथम् । सह । कैः । देवासुरमणुयरायविहवेहिं देवासुरमनुष्यराजविभवैः । कस्य । जीवस्स जीवस्य । कस्मात् । चरित्तादो चारित्रात् । कथंभूतात् । दंसणणाणप्पहाणादो सम्यग्दर्शन-ज्ञानप्रधानादिति । तद्यथा --
आत्माधीनज्ञानसुखस्वभावे शुद्धात्मद्रव्ये यन्निश्चलनिर्विकारानुभूतिरूपम-वस्थानं तल्लक्षणनिश्चयचारित्राज्जीवस्य समुत्पद्यते । किम् । पराधीनेन्द्रियजनितज्ञानसुखविलक्षणं,स्वाधीनातीन्द्रियरूपपरमज्ञानसुखलक्षणं निर्वाणम् । सरागचारित्रात्पुनर्देवासुरमनुष्यराजविभूतिजनकोमुख्यवृत्त्या विशिष्टपुण्यबन्धो भवति, परम्परया निर्वाणं चेति । असुरेषु मध्ये सम्यग्दृष्टिः कथमुत्पद्यतेइति चेत् – निदानबन्धेन सम्यक्त्वविराधनां कृत्वा तत्रोत्पद्यत इति ज्ञातव्यम् । अत्र निश्चयेनवीतरागचारित्रमुपादेयं सरागं हेयमिति भावार्थः ॥६॥