GP:प्रवचनसार - गाथा 7 - तत्त्व-प्रदीपिका
From जैनकोष
अथ चारित्रस्वरूपं विभावयति -
स्वरूपे चरणं चारित्रं, स्वसमयप्रवृत्तिरित्यर्थ: । तदेव वस्तुस्वभावत्वाद्धर्म: । शुद्धचैतन्य-प्रकाशनमित्यर्थ: । तदेव च यथावस्थितात्मगुणत्वात्साम्यम् । साम्यं तु दर्शनचारित्रमोहनीयो-दयापादितसमस्तमोहक्षोभाभावादत्यन्तनिर्विकारो जीवस्य परिणाम: ॥७॥