GP:प्रवचनसार - गाथा 80 - तत्त्व-प्रदीपिका
From जैनकोष
अथ कथं मया विजेतव्या मोहवाहिनीत्युपायमालोचयति -
यो हि नामार्हन्तं द्रव्यत्वगुणत्वपर्ययत्वै: परिच्छिनत्ति स खल्वात्मानं परिच्छिनत्ति, उभयोरपि निश्चयेनाविशेषात् । अर्हतोऽपि पाककाष्ठागतकार्तस्वरस्येव परिस्पष्टमात्मरूपं, ततस्तत्परिच्छेदे सर्वात्मपरिच्छेद: । तत्रान्वयो द्रव्यं, अन्वयविशेषणं गुण:, अन्वयव्यतिरेका: पर्याया: । तत्र भगवत्यर्हति सर्वतो विशुद्धे त्रिभूमिकमपि स्वमनसा समयमुत्पश्यति । यश्चेतनोऽयमित्यन्वयस्तद्द्रव्यं, यच्चान्वयाश्रितं चैतन्यमिति विशेषणं स गुण:, ये चैकसमयमात्रावधृतकालपरिमाणतया परस्परपरावृत्त अन्वयव्यतिरेकास्ते पर्यायाश्चिद्विवर्तनग्रन्थय इति यावत् ।
अथैवमस्य त्रिकालमप्येककालमाकलयतो मुक्तफलानीव प्रलम्बे प्रालम्बे चिद्विवर्तांश्चेतन एव संक्षिप्य विशेषणविशेष्यत्ववासनान्तर्धानाद्धवलिमानमिव प्रालम्बे चेतन एव चैतन्यमन्तर्हितं विधाय केवलं प्रालम्बमिव केवलमात्मानं परिच्छिन्दतस्तदुत्तरोत्तरक्षीयमाणकर्तृकर्मक्रियाविभागतया निष्क्रियं चिन्मात्रं भावमधिगतस्य जातस्य मणेरिवाकम्पप्रवृत्तनिर्मलालोकस्यावश्यमेव निराश्रतया मोहतम: प्रलीयते ।
यद्येवं लब्धो मया मोहवाहिनीविजयोपाय: ॥८०॥