GP:प्रवचनसार - गाथा 89 - तत्त्व-प्रदीपिका
From जैनकोष
अथ स्वपरविवेकसिद्धेरेव मोहक्षपणं भवतीति स्वपरविभागसिद्धये प्रयतते -
य एव स्वकीयेन चैतन्यात्मकेन द्रव्यत्वेनाभिसंबद्धमात्मानं परं च परकीयेन यथोचितेन द्रव्यत्वेनाभिसंबद्धमेव निश्चयत: परिच्छिनत्ति, स एव सम्यगवाप्तस्वपरविवेक: सकलं मोहं क्षपयति । अत: स्वपरविवेकाय प्रयतोऽस्मि ॥८९॥