GP:प्रवचनसार - गाथा 8 - तत्त्व-प्रदीपिका
From जैनकोष
अथात्मनश्चारित्रत्वं निश्चिनोति -
यत्खलु द्रव्यं यस्मिन्काले येन भावेन परिणमति तत् तस्मिन् काले किलौष्ण्यपरिणता-य:पिण्डवत्तन्मयं भवति । ततोऽयमात्मा धर्मेण परिणतो धर्म एव भवतीति सिद्धमात्मन-श्चारित्रत्वम् ॥८॥