GP:रत्नकरंड श्रावकाचार - श्लोक 100 - टीका
From जैनकोष
बध्रीयादनुतिष्ठेत् । किं तत् ? सामायिकम् । कस्यां सत्याम् ? विनिवृत्त्याम् । कस्मात् ? व्यापारवैमनस्यात् व्यापार: कायादिचेष्टा वैमनस्यं मनोव्यग्रता चित्तकालुष्यं वा तस्माद्विनिवृत्यामपि सत्याम् अन्तरात्मविनिवृत्या कृत्वा तद्बध्नीयात् अन्तरात्मनो मनोविकल्पस्य विशेषेण निवृत्या । कस्मिन् सति तस्यां तया तद्बध्रीयात् ? उपवासे चैकभुक्ते वा ॥