GP:रत्नकरंड श्रावकाचार - श्लोक 101 - टीका
From जैनकोष
चेतव्यं वृद्धिं नेतव्यम् । किं ? सामायिकम् । कदा ? प्रतिदिवसमपि न पुन: कदाचित् पर्वदिवस एव । कथम् ? यथावदपि प्रतिपादितस्वरूपानतिक्रमेणैव । कथम्भूतेन ? अनलसेनाऽऽलस्यरहितेन उद्यतेनेत्यर्थ: । तथाऽवधानयुक्तेनैकाग्रचेतसा । कुतस्तदित्थं परिचेतव्यम् ? व्रतपञ्चकपरिपूरणकारणं यत: व्रतानां हिंसाविरत्यादीनां पञ्चकं तस्य परिपूरणत्वं महाव्रतरूपत्वं तस्य कारणम् । यथोक्तसामायिकानुष्ठानकाले हि अणुव्रतान्यपि महाव्रतत्वं प्रतिपद्यन्तेऽतस्तत्कारणम् ॥