GP:रत्नकरंड श्रावकाचार - श्लोक 104 - टीका
From जैनकोष
तथा सामायिके स्थिता ध्यायन्तु । कम् ? भवं स्वोपात्तकर्मवशाच्चतुर्गतिपर्यटनम् । कथम्भूतम् ? अशरणं न विद्यते शरणमपायपरिरक्षकं यत्र । अशुभमशुभकारणप्रभवत्वादशुभकार्यकारित्वाच्चाशुभम् । तथाऽनित्यं चतसृष्वपि गतिषु पर्यटनस्य नियतकाललयाऽनित्यत्वादनित्यम् । तथा दु:खहेतुत्वाद्दु:खम् । तथानात्मानमात्मस्वरूपं न भवति । एवंविधं भवमावसामि एवंविधे भवे तिष्ठामीत्यर्थ: । यद्येवंविध: संसारस्तर्हि मोक्ष: कीदृश इत्याह- मोक्षस्तद्विपरीतात्मा तस्मादुक्तभवस्वरूपाद्विपरीतस्वरूपत: शरणशुभादिस्वरूप: इत्येवं ध्यायन्तु चिन्तयन्तु सामायिके स्थिता: ॥