GP:रत्नकरंड श्रावकाचार - श्लोक 109 - टीका
From जैनकोष
चत्वारश्च ते आहाराश्चाशनपानखाद्येह्यलक्षणा: । अशनं हि भक्तमुद्गादि, पानं हि पेयमथितादि, खाद्यं मोदकादि, लेह्यं रब्रादि, तेषां विसर्जनं परित्यजनमुपवासोऽभिधीयते । प्रोषध: पुन: सकृद्भुक्तिर्धारणकदिने एकभक्तविधानम् । यत्पुनरुपोष्य उपवासं कृत्वा पारणकदिने आरम्भं सकृद्भुक्तिमाचरत्यनुतिष्ठति स प्रोषधोपवासोऽभिधीयते इति ॥