GP:रत्नकरंड श्रावकाचार - श्लोक 112 - टीका
From जैनकोष
व्यापत्तयो विविधा व्याध्यादिजनिता आपदस्तासां व्यपनोदो विशेषेणोपनोद: स्फेटनं यत्तद्वैयावृत्यमेव । तथा पदयो: संवाहनं पादयोर्मर्दनम् । कस्मात् ? गुणरागात् भक्तिवशादित्यर्थ:- न पुनव्र्यवहारात् दृष्टफलापेक्षणाद्वा । न केवलमेतावदेव वैयावृत्यं किन्तु अन्योऽपि संयमिनां देशसकलव्रतानां सम्बन्धी यावान् यत्परिमाण उपग्रह उपकार: स सर्वो वैयावृत्यमेवोच्यते ॥