GP:रत्नकरंड श्रावकाचार - श्लोक 113 - टीका
From जैनकोष
दानमिष्यते । कासौ ? प्रतिपत्ति: गौरवा आदरस्वरूपा । केषाम् ? आर्याणां सद्दर्शनादिगुणोपेतमुनीनाम् । किंविशिष्टानाम् ? अपसूनारम्भाणां सूना: पञ्चजीवघातस्थानानि । यदुक्तम् --
खण्डनी पेषणी चुल्ली उदकुम्भ: प्रमार्जनी
पञ्चसूना गृहस्थस्य तेन मोक्षं न गच्छति ॥
खण्डनी उल्खलं, पेषणी घरट्ट:, चुल्ली चुलूक:, उदकुम्भ: उदकघट:, प्रमार्जनी बोहारिका। सूनाश्चारम्भाश्च कृष्यादयस्तेऽपगता येषां तेषाम्। केन प्रतिपत्ति: कत्र्तव्या? सप्तगुणसमाहितेन । तदुक्तम् --
श्रद्धा तुष्टिर्भक्तर्विज्ञानमलुब्धता क्षमा सत्यम्
यस्यैते सप्तगुणास्तं दातारं प्रशंसन्ति ॥
इत्येतै: सप्तभिर्गुणै: समाहितेन सहितेन तु दात्रा दानं दातव्यम्। कै कृत्वा? नवपुण्यै: । तदुक्तम् --
पडिगहमुच्चट्ठाणं पादोदयमच्चणं च पणमं च
मणवयणकायसुद्धी एसणसुद्धी य णवविहं पुण्णं ॥
एतैर्नवभि: पुण्यै: पुण्योपार्जनहेतुभि: ॥