GP:रत्नकरंड श्रावकाचार - श्लोक 117 - टीका
From जैनकोष
वैयावृत्यं दानं बु्रवते प्रतिपादयति । कथम् ? चतुरात्मत्वेन चतु:प्रकारत्वेन । के ते ? चतुरस्रा: पण्डिता: । तानेव चतुष्प्रकारान् दर्शयन्नाहारेत्याद्याह- आहारश्च भक्तपानादि: औषधं च व्याधिस्फोटकं द्रव्यं तयोद्र्वयोरपि दानेन । न केवलं तयोरेव अपि तु उपकरणावासयोश्च उपकरणं ज्ञानोपकरणादि: आवासो वसतिकादि: ॥