GP:रत्नकरंड श्रावकाचार - श्लोक 119 - टीका
From जैनकोष
आदृत: आदरयुक्त: नित्यं परिचिनुयात् पुष्टं कुर्यात् । किम् ? परिचरणं पूजाम् । किंविशिष्टम् ? सर्वदु:खनिर्हरणं नि:शेषदु:खविनाशकम् । क्व ? देवाधिदेवचरणे देवानामिन्द्रादीनामधिको वन्द्यो देवो देवाधिदेवस्तस्य चरण: पाद: तस्मिन् । कथम्भूते ? कामदुहि वाञ्छितप्रदे । तथा कामदाहिनि कामविध्वंसके ॥